Pranamya Shirsa Devam
Ketan Patwardhan
3:22ॐ ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमान: सचंत यत्र पूर्वे साध्या:संति देवा: ।। ॐ राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान् कामकामाय मह्यंकामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नम: । ॐ स्वस्ति । साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समंतपर्याईस्यात् सार्वभौम: सार्वायुष आंतादापरार्धात् । पृथिव्यैसमुद्रपर्यंताया एकराळिती । तदप्येषश्लोकोऽभिगीतो “मरुत: परिवेष्टारो मरुत्तस्याऽवसन् गृहे । आविक्षितस्यकामप्रेर्विश्वेदेवा: सभासद” इति । ॐ एकदंताय विद्महे वक्रतुंडाय धीमहि । तन्नो दन्ती प्रचोदयात् ।।