Ashtalakshmi Stotram
Subhiksha Rangarajan, Priya
5:57विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे । हृदये कलये विमलं चरणं भव शङ्कर देशिक मे शरणम् ॥ १ ॥ करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् । रचयाखिलदर्शनतत्त्वविदं भव शङ्कर देशिक मे शरणम् ॥ २ ॥ भवता जनता सुहिता भविता निजबोधविचारण चारुमते । कलयेश्वरजीवविवेकविदं भव शङ्कर देशिक मे शरणम् ॥ ३ ॥ भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता । मम वारय मोहमहाजलधिं भव शङ्कर देशिक मे शरणम् ॥ ४ ॥ सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता । अतिदीनमिमं परिपालय मां भव शङ्कर देशिक मे शरणम् ॥ ५ ॥ जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः । अहिमांशुरिवात्र विभासि गुरो भव शङ्कर देशिक मे शरणम् ॥ ६ ॥ गुरुपुङ्गव पुङ्गवकेतन ते समतामयतां नहि कोऽपि सुधीः । शरणागतवत्सल तत्त्वनिधे भव शङ्कर देशिक मे शरणम् ॥ ७ ॥ विदिता न मया विशदैककला न च किञ्चन काञ्चनमस्ति गुरो । द्रुतमेव विधेहि कृपां सहजां भव शङ्कर देशिक मे शरणम् ॥ ८ ॥ भव शङ्कर देशिक मे शरणम् ॥ ८ ॥ भव शङ्कर देशिक मे शरणम् ॥ ८ ॥ भव शङ्कर देशिक मे शरणम् ॥ ८ ॥ भव शङ्कर देशिक मे शरणम् ॥ ८ ॥ भव शङ्कर देशिक मे शरणम् ॥ ८ ॥