Lakshmi Narasimha Karavalamba Stotram

Lakshmi Narasimha Karavalamba Stotram

Shankara Sastry

Длительность: 5:55
Год: 2018
Скачать MP3

Текст песни

लक्ष्मी नृसिंह करावलंब स्तोत्रम्
श्रीमत्पयोनिधिनिकेतन चक्रपाणे
भोगीन्द्रभोगमणिरंजितपुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम् ॥॥
ब्रह्मॆन्द्ररुद्रमरुदर्ककिरीटकॊटि
सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुचसरॊरुहराजहंस
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
संसारदावदहनाकरभीकरॊरु-
ज्वालावलीभिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसीरुहमागतस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
संसारजालपतिततस्य जगन्निवास
सर्वॆन्द्रियार्थ बडिशाग्र झषॊपमस्य ।
प्रॊत्कम्पित प्रचुरतालुक मस्तकस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
संसारकूमपतिघॊरमगाधमूलं सम्प्राप्य
दुःखशतसर्पसमाकुलस्य ।
दीनस्य दॆव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
संसारभीकरकरीन्द्रकराभिघात
निष्पीड्यमानवपुषः सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
संसारसर्पविषदिग्धमहॊग्रतीव्र
दंष्ट्राग्रकॊटिपरिदष्टविनष्टमूर्तॆः ।
नागारिवाहन सुधाब्धिनिवास शौरॆ
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
संसारवृक्षबीजमनन्तकर्म-शाखायुतं
करणपत्रमनङ्गपुष्पम् ।
आरुह्य दुःखफलितः चकितः दयालॊ
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
संसारसागरविशालकरालकाल
नक्रग्रहग्रसितनिग्रहविग्रहस्य ।
व्यग्रस्य रागनिचयॊर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
संसारसागरनिमज्जनमुह्यमानं दीनं
विलॊकय विभॊ करुणानिधॆ माम् ।
प्रह्लादखॆदपरिहारपरावतार
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
संसारघॊरगहनॆ चरतॊ मुरारॆ
मारॊग्रभीकरमृगप्रचुरार्दितस्य ।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
बद्ध्वा गलॆ यमभटा बहु तर्जयन्त
कर्षन्ति यत्र भवपाशशतैर्युतं माम् ।
ऎकाकिनं परवशं चकितं दयालॊ
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
लक्ष्मीपतॆ कमलनाभ सुरॆश विष्णॊ
यज्ञॆश यज्ञ मधुसूदन विश्वरूप ।
ब्रह्मण्य कॆशव जनार्दन वासुदॆव
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
ऎकॆन चक्रमपरॆण करॆण शङ्ख-
मन्यॆन सिन्धुतनयामवलम्ब्य तिष्ठन् ।
वामॆतरॆण वरदाभयपद्मचिह्नं
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
अन्धस्य मॆ हृतविवॆकमहाधनस्य
चॊरैर्महाबलिभिरिन्द्रियनामधॆयैः ।
मॊहान्धकारकुहरॆ विनिपातितस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
प्रह्लादनारदपराशरपुण्डरीक-
व्यासादिभागवतपुङ्गवहृन्निवास ।
भक्तानुरक्तपरिपालनपारिजात
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥
लक्ष्मीनृसिंहचरणाब्जमधुव्रतॆन स्तॊत्रं
कृतं शुभकरं भुवि शङ्करॆण ।
यॆ तत्पठन्ति मनुजा हरिभक्तियुक्ता-
स्तॆ यान्ति तत्पदसरॊजमखण्डरूपम् ॥