Ganapati Stavaha
Uma Mohan
7:35रणत्क्षुद्रघण्टानिनादाभिरामं चलत्ताण्डवोद्दण्डवत्पद्मतालम् लसत्तुन्दिलाङ्गोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् गलद्दर्पसौगन्ध्यलोलालिमालं गणाधीशमीशानसूनुं तमीडे प्रकाशज्जपारक्तरन्तप्रसूनं प्रवालप्रभातारुणज्योतिरेखम् प्रलम्बोदरं वक्रतुण्डैकदन्तं गणाधीशमीशानसूनुं तमीडे विचित्रस्फुरद्रत्नमालाकिरीटं किरीटोल्लसद्विभूषितचन्द्ररेखाम् विभूषैकभूषं भवध्वंसहेतुम् गणाधीशमीशानसूनुं तमीडे उदञ्चद्भुजावल्लरीदृश्यमूलो चलद्भ्रूलताविभ्रमभ्राजदक्षम् मरुत्सुन्दरीचामरैःसेव्यमानं गणाधीशमीशानसूनुं तमीडे स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं कृपाकोमलेदारलीलावतारम् कलाबिन्दुगं गीयते योगिवर्यैः गणाधीशमीशानसूनुं तमीडे यमेकाक्षरं निर्मलं निर्विकल्पम् गुणातीतमानन्दमाकारशून्यम् परमपारमोन्कारमायानगरभम् वदन्ति प्रगल्भं पुराणं तमीडे चिदानन्दसाराय शान्ताय तुभ्यं नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् नमोऽनन्तलीलाय कैवल्यभासे नमो विश्वबीजप्रसीददेशसूनो इमं सुस्तवं प्रातरुत्थाय भक्त्या पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् गणेशप्रसादेन सिद्ध्यन्ति वाचो गणेशे विभौ दुर्लभं किं प्रसन्ने