Rigveda: Hiranyagarbha Sukta - A Famous Hymn On The Beginning Of The Universe

Rigveda: Hiranyagarbha Sukta - A Famous Hymn On The Beginning Of The Universe

Ved Vrind

Длительность: 2:43
Год: 2015
Скачать MP3

Текст песни

ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्
सदा आधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः
यस्य छायामृतम् यस्य मृत्युः कस्मै देवाय हविषा विधेम
यः प्राणतो निमिषतो महित्वै क इद्राजा जगतो बभूव
यः ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम
यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः
यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम
येन द्यौरुग्रा पृथिवी च दृळहा येन स्वः स्तभितं येन नाकः
यो अंतरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम
यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने
यत्राधि सूर उदतो विभाति कस्मै देवाय हविषा विधेम
आपो ह यद् बृहतीर्विश्वमायन् गर्भं दधाना जनयन्तीरग्निम्
ततो देवानाम् समवर्ततासुरेकः कस्मै देवाय हविषा विधेम
यश्चिदापो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर्यज्ञम्
यो देवेष्वधि देवः एक आसीत कस्मै देवाय हविषा विधेम
मा नो हिंसीज्जनिताः यः पृथिव्या यो वा दिव सत्यधर्मा जजान
यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव
यत् कामास्ते जुहुमस्तन्नो अस्तु वयं सरयाम पतयो रयीणाम्
ॐ