Shri Margabandhu Stotram
Uma Mohan
5:11सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः भवे भवे नाति भवे भवस्व मां भवोद्भवाय नमः वामदेवायनमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्य: सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशान सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माऽधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतय उमापतये पशुपतये नमो नमः ॐ ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रः सन्महो नमो नमः विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु (नमो अस्तु) कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे वोचेम शन्तमं हृदे सर्वोह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु